बालमोदिनी

सूफीमतस्य साधुषु अन्यतमः खय्यामः शिष्येण केनचित् सह परिभ्रमति स्म । ग्रामात् ग्रामं गच्छाद्भ्यां मार्गस्य निबिडम् अरण्यमेकं क्रमणीयम् अभवत् । तदा विलक्षणं घटनाद्वयं समभवत् । यदा शिष्यः गुरोः विलक्षणस्य व्यवहारस्य कारणम् अपृच्छत् तदा खय्यामः ईश्वरस्य मानवस्य च सङ्गः कारणम् इति विवृत्य ईश्वरे दृढा श्रद्धा स्थापनीया, भगवान् पदे पदे अस्मान् परीक्षते.... इत्यादीनि हितवचनानि अवदत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Khayyam, one of the Sufi saints, was travelling with one of his disciples. As they went from one village to another, they had to pass through a dense forest. During the journey, two unusual incidents took place. When the disciple asked the reason for his teacher’s strange behaviour, Khayyam explained that it was due to the relationship between God and human beings. He advised the disciple to have strong faith in God and said that God tests us at every step of life. He also shared many other wise teachings.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.