बालमोदिनी

मदनमोहनमालवीयः यदा विश्वविद्यालयनिर्माणाय धनसङ्ग्रहणकार्ये निरतः आसीत् तदा कश्चन धनिकः स्वपुत्र्याः विवाहनिमन्त्रणपत्रं तस्मै दत्तवान् । मालवीयस्य शिष्यः एव तस्य कन्यायाः वरः आसीत् । सः धनिकः विवाहं वैभवपूर्णं कर्तुम् इच्छति स्म । मालवीयः तम् आडम्बरव्ययस्य व्यर्थत्वं सूचितवान्, एवं कृत्वा तदर्थं यत् धनं व्ययीक्रियेत तत् विश्वविद्यालयाय दानरूपेण समर्प्यताम् इति तेन निर्दिष्टम् । धनिकः तस्य अभिप्रायं स्वीकृतवान् । वरस्य पक्षे अपि अङ्गीकारः प्राप्तः । अवशिष्टं धनं विश्वविद्यालयाय अर्पितम्, येन विश्वविद्यालये अनेकानि भवनानि निर्मितानि । जनाः एतां दानशीलतां प्रशंसन्तः उक्तवन्तः - "एषः एव वरदक्षिणायाः योग्यः अर्थः" इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

When Madan Mohan Malaviya was busy raising funds for the construction of a university, a rich man gave him a marriage certificate for his daughter. Malaviya's disciple was the groom of his daughter. The rich man wanted to marry a rich woman. Malaviya informed him of the futility of the extravagance, and he was instructed to donate whatever money could be spent on it to the university. Initially, he was hesitant, but eventually, the rich man accepted his opinion. The groom's side also received a pledge. Marriage is easy. The rest of the money was donated to the university, which constructed several buildings. People praised this generosity and said, "This is the meaning of the dowry."

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.