बालमोदिनी

परीक्षायाम् अधिकान् अङ्कान् प्राप्तवतः सत्काराय कार्यक्रमः आयोजितः आसीत् कस्मिंश्चित् सर्वकारीये विद्यालये । मुख्यातिथिः पारितोषिकं यच्छन् कांश्चन प्रश्नान् पृष्टवान् ।  किन्तु एकस्यापि प्रश्नस्य उत्तरं दातुम् असमर्थः बालकः कारणे पृष्टे, केवलं कण्ठस्थीकृत्य उत्तरं लिखामि इति उक्तवान् । तत्रैव स्थितः अन्यः बालकः सर्वेषां प्रश्नानाम् उत्तरं ददाति । तत् श्रुत्वा अतिथिः तस्मै स्वयं पारितोषिकं ददाति । कथं सर्वं जानाति इति पृष्टे, बालकः वदति - पाठ्यपुस्तकानि इव अन्यानि अपि पुस्तकानि ज्ञानसङ्ग्रहाय पठामि इति । सः एव दादाभायि नवरोजि ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, an award ceremony was organized at a government school. While giving the prize to the top scorer, the chief guest asked a few questions. The student was unable to answer, as he only memorized the answers to write in the exam. A child standing nearby answered all the questions, as he read other books in addition to the textbooks. The chief guest, pleased with his knowledge, happily gave him the prize. This boy was none other than Dadabhai Naoroji.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.