बालमोदिनी

कदाचित् मार्गे गच्छता गुरुणा कस्यचित् महावृक्षस्य मनोवृत्तिं ज्ञात्वा 'तथास्तु' इति उक्तम् । सा मनोवृत्तिः का इति शिष्येण पृष्टे, गुरुः अवदत् 'चक्रवर्तीं भूत्वा भूमण्डलं परिपालनीयम्' इति । तत् श्रुतवतः शिष्यस्य हासं दृष्ट्वा गुरुः वदति यदि भगवतः सङ्कल्पः स्यात् तर्हि लोके असाध्यं किमपि नास्ति इति । किं तस्य वृक्षस्य मनोवृत्तिः परिपूर्णा भवेत् ? गुरोः आशीर्वादः सफलः किं भवेत् ? सर्वं जानन्तु कथां श्रुत्वा ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, while walking along a path, a teacher sensed the inner desire of a large tree and said, “So be it.” A student, curious, asked what the tree’s wish was. The teacher replied, “It wishes to become a great emperor and rule the world.” Hearing this, the student laughed. The teacher then said, “If it is the will of the Divine, nothing is impossible in this world.” Will the tree’s wish be fulfilled? Will the teacher’s blessing come true? Listen to the full story to find out.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.