बालमोदिनी

कदाचित् श्रीकृष्णलक्ष्म्योः मध्ये सुदाम्नः जीवनावस्थायाः चर्चा भवति । तदा श्रीकृष्णः वदति 'प्रारब्धं नाम किञ्चन तत्त्वम् अस्ति । तत् कस्मै अपि जनाय समयात् पूर्वं भाग्यात् अधिकं न ददाति' इति । तदा तत् अनङ्गीकृत्य लक्ष्मीः भिक्षाटनसमये कस्याश्चित् गृहस्वामिन्याः मनसि सुदामविषये अनुकम्पाम् उत्पादितवती । तस्य परिणामतः सुदामा पायसं प्राप्तवान् । गृहगमनसमये मार्गे सः पादस्खलनात् भूमौ अपतत् । समग्रं पायसं मृत्तिकामिश्रितं तत् कुक्कुरस्य भोजनम् अभवत् । तत् दर्शयन् श्रीकृष्णः अवदत् 'भाग्ये यत् लिखितं तदेव प्राप्यते' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, Shri Krishna and Goddess Lakshmi were discussing the life of Sudama. Krishna said, “There is a principle called destiny. It never gives anyone more than what is written in their fate before the right time.” Lakshmi did not agree and, during her visit to a household while begging, she created compassion in the heart of the lady for Sudama. As a result, Sudama received a bowl of sweet (payasam). On his way home, he slipped and fell to the ground. The entire payasam got mixed with mud and was eaten by a dog. Seeing this, Krishna said, “One only receives what is written in their destiny.”

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.