बालमोदिनी

कश्चन धनिकः बदरीकेदारनाथादिदर्शनार्थं गतवान् । तत्र काचन बालिका धनिकम् उपसर्प्य एकं रूप्यकम् अयाचत । सः कोषात् निष्कास्य अञ्जलिमितानि रूप्यकाणि बालैकायै अयच्छत् । एतावन्ति नाणकानि प्राप्य सा बालिका यद्यपि सन्तुष्टा जाता तथापि अनतिदूरे क्रीडतः निर्धनबालकान् दृष्ट्वा तस्याः सन्तोषः विलुप्तः । सा तेषां दिशि गत्वा एकैकस्मै अपि बालकाय एकैकं नाणकम् अयच्छत् । अन्ते एकम् एव नाणकं तस्याः हस्ते अवशिष्टम् । महत्या सन्तृप्त्या सा ततः निर्गतवती । तस्याः उदारतां निःस्पृहतां च दृष्ट्वा सः धनिकः महत् आश्चर्यं प्राप्नोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A wealthy man once went to visit Badrinath and Kedarnath. There, a little girl approached him and asked for one coin. The man generously gave her a handful of coins from his purse. The girl was happy at first, but soon saw some poor children playing nearby. Her joy faded. She walked over to them and gave one coin to each child. In the end, only one coin remained in her hand. She left with great satisfaction. Seeing her kindness and selflessness, the rich man was deeply amazed.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.