बालमोदिनी

विसनामके नगरे कश्चन कुम्भकारः आसीत् । कदाचित् मङ्गलगीतानि गायन्त्यः स्त्रियः तस्य आपणम् आगत्य विवाहनिमित्तं कञ्चन घटं सपादरूप्यकं दत्त्वा नीतवत्यः । किञ्चित्कालानन्तरं द्वित्राः जनाः आगत्य बन्धोः अन्त्येष्टिकर्मनिमित्तम् आवश्यकमिति यदा उक्तवन्तः तदा कुम्भकारः एकं घटं विना मूल्यम् अयच्छत् । सर्वं पश्यन् आपणे स्थितः घटः स्वजातिबान्धवयोः भिन्ना भिन्ना गतिः जाता इति समीपस्थं घटं स्वाभिप्रायम् असूचयत् । तदा सः कर्तव्यनिष्ठः घटः जीवनस्य मूल्यं कर्तव्यम् अधिकृत्य निर्धारितं भवति इति उपदिशति । कर्तव्यनिष्ठस्य घटस्य वचनं श्रुत्वा सः घटः मौनम् असेवत ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the city of Visanama, there was a potter. One day, women singing auspicious songs visited his shop and bought a pot for a wedding, paying a small sum. Later, a few people came seeking a pot for a funeral. The potter gave it to them for free. Observing this, a nearby pot remarked that two pots of the same kind had met entirely different fates. Another pot, wise and dutiful, explained that the value of life is determined by its purpose and duties. Hearing this, the questioning pot fell silent in realization.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.