बालमोदिनी

कस्यचिदपि उपदेशस्य कण्ठस्थीकरणे न किमपि प्रयोजनम्, अपि तु तस्मिन् निहितं तथ्यं सम्यक् विचारणीयं भवति । ये तत् न कुर्वन्ति ते पुनः सङ्कटे पतन्ति, कष्टानि च अनुभवन्ति । तादृशी एव परिस्थितिः कथायाम् अस्याम् अभवत् शुकानाम् । यत् ऋषिः पाठितवान् तत् केवलं कण्ठस्थीकृतवन्तः । किन्तु व्याधेन एकः प्रयोगः कृतः येन ते शुकाः जाले आगत्य निपतिताः । सद्य एव आगतवता ऋषिणा शुकानां मूर्खता अवगता । सः व्याधं प्रतिबोध्य शुकान् जालात् विमुक्तान् कारितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Memorizing teachings without understanding their true meaning serves no purpose. Those who fail to reflect on wisdom often face hardships. Such was the fate of a group of parrots in this story. They merely memorized the sage’s lessons but never grasped their essence. When a hunter devised a trick, they were caught in his net. Realizing their ignorance, the sage intervened, enlightened the hunter and freed the parrots.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.