बालमोदिनी

बलभद्रनामा कश्चन वणिक्पुत्रः आसीत् । तस्य सम्पदं दृष्ट्वा अनेके जनाः तस्य सुहृदः अभवन् । तस्य आपणे सर्वदा सम्यक् खादन्तः जल्पन्तः मद्यं पिबन्तः च कालं यापयन्ति स्म । अथ कदाचित् दूरस्थात् ग्रामात् बलभद्रं द्रष्टुम् आगतः मातुलः सम्पत्तेः दुरुपयोगं दृष्ट्वा सुहृदां विषये पूर्वसूचनां ददाति यत् एते वास्तविकाः सुहृदः न इति । तेषां सुहृदां लघुपरीक्षां करोति । तया  बलभद्रेण ज्ञायते कः वास्तविकः सुहृद् इति  ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Balabhadra was the son of a merchant. Seeing his wealth, many people became his friends. They spent time in his shop eating, chatting, and drinking. One day, Balabhadra’s uncle came from a distant village. Observing the misuse of wealth, he warned Balabhadra that these were not true friends. To test them, Balabhadra arranged a small trial, through which he discovered who his real friends were.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.