बालमोदिनी

केरले पूर्वं कश्चन नम्पूतरिः दरिद्रः चेदपि अतिथिसत्कारप्रियः । सः प्रतिदिनं कमपि जनं भोजनार्थम् आह्वयति स्म । किन्तु पत्न्यै श्रीदेव्यै पत्युः एषः स्वभावः दारिद्र्यकारणात् न रोचते स्म । एकस्मिन् दिने यदा नम्पूतरिः त्रिभिः अथितिभिः साकं गृहम् आगच्छत् तदा पत्युः एतादृशस्य शीलस्य अन्त्यं कर्तुम् ऐच्छत् श्रीदेवी । पतिः स्नानार्थम् अगच्छत् अतिथयः च बुभुक्षिताः सन्तः उपविष्टवन्तः आसन् । पाकशालायां मुसलं पूजयन्तीं श्रीदेवीं दृष्ट्वा अतिथयः तस्य कारणम् अपृच्छन् । तदा श्रीदेवी अवदत् 'भोजनानन्तरं मम पतिः मुसलेन अतिथीन् प्रहरति' इति । एतत् श्रुत्वा अतिथयः अधावन् । तदनन्तरं न को‌Sपि तस्य गृहं प्रति भोजनार्थम् आगतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In Kerala, there once lived a Namboodiri who, though poor, was very fond of hospitality. Every day he would invite someone home for a meal. His wife, Sridevi, however, disliked this habit because of their poverty. One day, the Namboodiri returned home with three guests. Wishing to put an end to her husband’s practice, Sridevi devised a plan. While her husband went to bathe, the hungry guests sat waiting. In the kitchen, they saw Sridevi worshipping a pestle and asked her the reason. She replied: “After meals, my husband strikes the guests with this pestle”. Hearing this, the frightened guests ran away. From then on, no one came to their house for food.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.