रामकृष्णपरमहंसस्य पत्नी शारदादेवी सर्वजनवत्सला आसीत् । एकदा एका महिला तां द्रष्टुं आगता । सा शारदादेवीं अवदत्, "मम पतिः कश्चित् वैद्यः, सः धनं सम्पादयतु इति आशीर्वादं कुरुतु ।" शारदादेवी विचार्य अवदत्, "अहम् आशीर्वादं कर्तुं न समर्था ।" कारणे पृष्टे शारदादेवी उक्तवती, "धनं प्राप्यते चेत् सुखं न लभ्यते । अनेके जनाः धनवन्तः अपि दुःखिताः सन्ति ।" अन्यच्च "यदि तव पतिः धनं सम्पादयेत्, तर्हि रोगिणां सङ्ख्या वर्धिष्यते । अहं सदा प्रार्थये 'सर्वे सन्तु निरामयाः' इति । एतम् आशयं तस्मिन् आशीर्वादे प्रकटयितुं न शक्नोमि । किन्तु अहं तव सुखं, निरामयतां च प्रार्थये, तदर्थम् आशीर्वादं करोमि ।" अतः शारदादेव्याः आशीर्वादं प्राप्य सा महिला ततः निर्गता ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
shardadevi was the wife of Ramakrishna Paramahamsa. One day a woman came to see Sharadadevi and said "My husband is a doctor; please bless him so that he can earn money. Sharadadevi thought and said, "I am not able to bless. The woman asked, "Why?" Sharda Devi said, "There is no happiness without money." Many people are rich and still not happy. "The second reason Sharadadevi said," If your husband earns money, the number of patients will increase. I always pray for everyone to be happy. I cannot express this hope in that blessing. But I will pray for your happiness and well-being, and I will bless you. "So, after getting the blessings of Sharadadevi, the woman left.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.