कदाचित् श्रीकृष्णः विविधैः सुन्दरैः आभरणैः आत्मानम् अलङ्कुर्वन् आसीत् । यः कदापि बाह्यालङ्कारे आसक्तिं न दर्शयति सः अद्य कथं बाह्यालङ्कारे विशेषास्थावान् इति चिन्तयन् आप्तः सेवकः कारणं पृच्छति । तदा कृष्णः वदति 'दुर्योधनं द्रष्टुं गच्छामि । बाह्याडम्बरदर्शने तस्य विशेषासक्तिः । अतः तं प्रभावयितुम् अयं वेशः' इति । पुनः सेवकः वदति यत् 'भवता किमर्थं तत्र गम्यते ? सः एव अत्र आनाय्यताम्' इति । तदा कृष्णः वदाति 'अन्धकारः प्रकाशदिशि न गच्छति । प्रकाशः एव अन्धकारदिशि गच्छेत्' इति । श्रीकृष्णस्य कार्यनीतेः आन्तर्यं ज्ञातुं न शक्नुमः अस्माभिः इति वदन् सः सेवकः ततः निर्गतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Lord Krishna adorned himself with various beautiful ornaments. A close attendant, surprised by this unusual display—since Krishna was never attached to external decoration—wondered about the reason and asked him. Krishna replied, “I am going to meet Duryodhana. He is particularly drawn to outward grandeur. Hence, this appearance is meant to influence him.” The attendant then suggested, “Why should you go to him? Let him be brought here instead.” Krishna responded wisely, “Darkness does not approach light; it is light that must go toward darkness.” Hearing this profound statement, the attendant realized that Krishna’s actions are guided by deeper principles beyond ordinary understanding, and he quietly withdrew.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.