बालमोदिनी

दक्षिणभारते काञ्चिनगरे कस्यचन यज्ञस्य प्रवेशद्वारे मृत्युदेवस्य यमराजस्य वक्रदृष्टिः अपतत् इति कारणेन कश्चन पारवतः म्लानमुखः आसीत् । तत्रैव स्थितः सरलहृदयः सहायमनस्कः च गरुडः कारणं ज्ञात्वा पारवतं पारेयोजनसहस्रं सुमेरुपर्वतस्य कन्दरां प्रापय्य प्रत्यागतः। यज्ञसभातः‌ निष्क्रामन् यमराजः पारवतस्य गहनतामासु सुमेरुकन्दरासु एकेन बिडालेन कथं सम्पाद्यते इति जिज्ञसां गरुडाय प्रकटयति तदा गरुडः प्रवृत्तं सर्वम् अकथयत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In South India, near the entrance of a sacrificial ceremony, the god of death, Yamaraja, cast a stern glance, which caused a parrot to become distressed. Nearby, Garuda, known for his kind heart and helpful nature, understood the reason behind the parrot's sorrow. He swiftly carried the parrot across thousands of leagues to the caves of Mount Sumeru and returned. Later, as Yamaraja emerged from the sacrificial ceremony, he expressed curiosity to Garuda about how the parrot would meet its fate in the depths of Sumeru's caves through a cat. Garuda then narrated the entire sequence of events. A story of destiny and divine intervention.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.