बालमोदिनी

कदाचित् लक्ष्मीसरस्वत्योः मध्ये का श्रेष्ठा इति विवादः उत्पन्नः । संन्यासिनीरूपेण भूलोकं गत्वा स्वस्य श्रेष्ठता प्रतिष्ठापनीया इति निर्णयं कृत्वा आदौ लक्ष्मीः एकं ग्रामम् अगच्छत् । स्वीयेन सुवर्णपात्रेण यस्मिन् गृहे सा भोजनं करोति तत्रैव भोजनपात्रं परित्यज्यते लक्ष्म्या । जनाः तां स्वगृहं प्रति निमन्त्रयितुम् अहमहमिकया प्रवृताः अभवन् । ग्रामे सर्वत्र ईर्ष्या, असूया, कलहः इत्यादयः आरब्धाः । तदनन्तरं सरस्वत्या  मासात्मकः प्रवचनकार्यक्रमः कृतः । ग्रामे कश्चन सात्त्विकप्रभावः प्रवृद्धः । अन्ते लक्ष्मीः सरस्वतीम् उद्दिश्य अवदत् 'भवत्याः शक्तिः एव श्रेष्ठा' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A dispute arose between Laksmi and Saraswathi over who was greater. Disguised as ascetics, they came to earth to prove their superiority. First Laksmi visited a village. Wherever she ate, she left behind her golden plate. People competed to invite her, and jealousy, envy, and quarrels spread throughout the village. Later Saraswathi organized a month-long series of discourses. A pure and noble atmosphere grew in the village. In the end, Laksmi admitted to Saraswathi, “Your power is truly superior.”

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.