बालमोदिनी

पूर्वस्मिन् जन्मनि उत्पन्नया प्रतीकारभावनया काचित् गर्भवती नर्तकी अग्रिमजन्मनि राजगृहे हारीतिः नामिका यक्षिणी भूत्वा नगरस्थान् बालान् चोरयित्वा खादनम् आरब्धवती । राजा तस्याः बन्धनं कारयित्वा कारागृहे स्थापितवान् । गौतमबुद्धेन तस्याः पुत्रः अपहरणीयः इति राजभटाः आदिष्टाः । तथा कृते हारीतिः पश्चात्तापं अनुभवन्ती पापात् कथं विमुक्तिः प्राप्तव्या इति प्रार्थितवती ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A dancer in her previous birth, with a desire for revenge, is reborn as yakshini named Haariti. In this life, she steals children from the town and eats them. The King had her captured and imprisoned. Gautama Buddha instructed the King’s soldiers to kidnap her son. After this, Haariti, feeling guilty, prayed, asking how she could be freed from the consequences of her sins.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.