बालमोदिनी

कस्मिंश्चित् कुटुम्बे उभौ भ्रातरौ आस्ताम् । तयोः पिता मध्यपानं कृत्वा गृहे सर्वदा कोलाहलं करोति स्म । एतत् दृष्ट्वा तयोः अन्यतरः अचिन्तयत् यत् मया स्वीये जीवने एवं न भवितव्यमिति । अतः सः सर्वाः बाधाः अविगणय्य अध्ययने निरतः अभवत् । उच्चपदवीं च प्राप्तवान् । किन्तु अन्यः भ्राता गृहस्य कलहपूर्णेन वातावरणेन अध्ययने अनासक्तः जातः । अनुचितेषु कार्येषु प्रवृत्तः चौर्यस्य कारणेन कारागारे प्रविष्टः । एकम् एव वातावरणं किन्तु फलं भिन्नम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In a certain family, there were two brothers. Their father, being an alcoholic, constantly created chaos at home. Observing this, one brother resolved that he would not let his life take a similar path. Despite all difficulties, he dedicated himself to his studies and eventually attained a high position. However, the other brother, influenced by the turmoil in the household, lost interest in education and engaged in wrongful activities. His involvement in theft led to imprisonment. Though both grew up in the same environment, their outcomes were entirely different.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.