बालमोदिनी

प्रथमस्वातन्त्र्यसङ्ग्रामस्य प्रमुखस्य नानासाहेबस्य उपस्थितिं सूचितवन्तं प्रति पञ्चाशत्सहस्रं दास्यन्ते इति आङ्ग्लसर्वकारेण घोषितमासीत्। कदाचित् बुभुक्षया पिपासया श्रान्त्या च किञ्चित् गृहम् आगतवन्तं नानसाहेबं, गृहस्वामिनी ससन्तोषेण भोजनं परिवेषितवती । तावता आरक्षाधिकारी तस्याः पतिः गृहं प्रविश्य नानासाहेबं बन्धुं प्रयतते । पतिपत्न्योः मध्ये वादविवादे आरब्धे पतिः लघुभुषुण्डिकां हस्तेन गृह्णाति । पत्नी तस्य हस्तात् भुषुण्डिकां बलात् स्वीकृत्य अग्रे किं करोति इति कथां श्रुत्वा जानन्तु।

(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

The British government had announced a reward of fifty thousand rupees for anyone who informed them about Nana Saheb, a prominent leader during the First War of Indian Independence. Once, when the weary and exhausted Nana Saheb knocked at someone's door, the housewife, with great joy, served him food. By then, her husband, a police officer, entered the house and attempted to arrest Nana Saheb. An argument took place between the husband and wife. When the husband drew his gun, the wife forcibly snatched it from his hand. Listen to the story to find out what happens next.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.