बालमोदिनी

कदाचित् कश्चन कुग्रामवासी कस्यचन धनिकस्य गृहं गत्वा जलं याचति । किन्तु धनिकः तस्य मलिनवस्त्रं दृष्ट्वा क्रुद्धः भूत्वा किमपि न यच्छति । अग्रे कदाचित् सः‌ धनिकः यदा मृगयार्थं गतः तदा मार्गभ्रष्टः सन् बहुधा अटित्वा अन्ते कुग्रामवासिनः गृहं प्राप्नोत् । किन्तु सः कुग्रामवासी धनिकाय जलं भोजनं शयनाय स्वस्य मञ्चं च दत्तवान् । अग्रिमदिने यदा धनिकः सुवर्णनाणकानि कुग्रामीणाय कृतज्ञतापूर्वकं दातुम् उद्यतः तदा कुग्रामवासी तत् निराकुर्वन् अवदत् 'जीवने धनम् आगच्छेत् गच्छेत् च । जीवने धनं मुख्यं न । यस्मिन् काले यस्य या आवश्यकता भवेत् सा पूरणीया । तादृशव्यवहारवान् एव उत्तमत्वेन ख्यातः भविष्यति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a poor villager went to a wealthy man’s house asking for water. Seeing his dirty clothes, the rich man grew angry and refused. Later, while hunting, the same rich man lost his way and, after wandering long, reached the poor villager’s hut. The villager welcomed him with water, food, and even his own bed to rest. The next day, the rich man tried to reward him with gold coins. But the villager declined, saying: “Wealth comes and goes; it is not the essence of life. What matters is fulfilling another’s need at the right time. Such conduct alone brings true honor”.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.