बालमोदिनी

कुरुक्षेत्रस्य युद्धे कदाचित् भीष्मः प्रतिज्ञातवान् 'अहं श्वः अर्जुनं मारयिष्यामि अथवा तेन पराजितः वा भविष्यामि' इति । तां प्रतिज्ञां श्रुत्वा पाण्डवपक्षे सर्वेऽपि भीताः चिन्तिताः च अभवन् । भगवान् श्रीकृष्णः अपि चिन्तावशात् रात्रौ निद्रां न प्राप्तवान् । सः अर्जुनस्य सेनाशिबिरं गतवान् । अर्जुनः तु गाढनिद्रायां मग्नः आसीत् । साश्चर्यं कृष्णः तम् उत्थाप्य प्रतिज्ञायाः विषये चिन्तितः नास्ति वा इति यदा अपृच्छत् तदा अर्जुनः अवदत् 'स्वस्य भक्तस्य अर्जुनस्य रक्षणभारः भगवतः भवतः एव । मम चिन्ता का अत्र?’ इति । अर्जुनस्य एतादृशं दृढं विश्वासं दृष्ट्वा एव श्रीकृष्णः पार्थसारथिः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

During the Kurukshetra war, Bhishma vowed, "Tomorrow, I will either kill Arjuna or be defeated by him". Hearing this, the Pandavas were terrified, and even Krishna could not sleep due to worry. Krishna went to Arjuna’s camp, but found him in deep sleep. Surprised, Krishna woke him up and asked if he was not concerned about Bhishma’s vow. Arjuna calmly replied, "The responsibility of protecting me is yours, my Lord. Why should I worry?" Seeing Arjuna’s unwavering faith, Krishna became his charioteer, guiding him throughout the war.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.