बालमोदिनी

कदाचित् किञ्चन यात्रिकदलं मरुस्थलम् अतिक्रामत् आसीत् । तस्मिन् मरुस्थले जलं, भोजनादिकं किमपि न असीत् तस्य दलस्य सदस्यानां निकटे । एकस्मिन् स्थले ते बहूनि फलानि धारयतः वृक्षान् दृष्ट्वा सर्वे अपि वृक्षं प्रति अधावन् । तदा दलनायकः तान् निरुद्ध्य तानि फलानि उपयोगयोग्यानि वा न वा इति परीक्षां कृतवान् । तदा तैः ज्ञातं यत् तानि फलानि विषयुक्तानि इति । एवंप्रकारेण दलनायकस्य योग्यताकारणतः दलस्य रक्षणम् अभवत् । अतः अस्माभिः अनायासेन प्राप्तस्य वस्तुनः उपयोगितायाः परीक्षणं कृत्वा एव उपयोगः करणीया ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a group of travellers was crossing a desert. They had no water or food with them. At one place, they saw a tree bearing many fruits and rushed toward it. The leader of the group stopped them and tested whether the fruits were safe to eat. It was then discovered that the fruits were poisonous. Because of the leader’s wisdom, the entire group was saved. Before using anything obtained easily, one must test its usefulness and safety.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.