बालमोदिनी

भारतस्य पूर्वतटे 'जगन्नाथपुरी' नाम महत् पवित्रं क्षेत्रमस्ति इति तु वयं जानीमः एव ।  राजा इन्द्रद्युम्नः एव तस्य मन्दिरस्य निर्माणं कृतवान् । जगन्नाथस्य मूर्तिः नेत्रमात्रयुक्ता अस्ति । किमर्थं हस्तपादविरहिता मस्तकयुक्ता मूर्तिः तत्र दृश्यते इति जानन्ति वा ? सा मूर्तिः अधुना अपि भक्तान् 'यः प्रभुकार्यं कर्तुम् इच्छति, सः अहङ्कारं त्यजेत् एव' इति उपदिशति । एवं किमर्थम् इति सर्वम् इमां स्वारस्यकारीं कथां श्रुत्वा जानन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

On the eastern coast of India lies the sacred site known as 'Jagannath Puri', a place well known to many. It was King Indradyumna who constructed the temple there. The idol of Lord Jagannath is unique, as it has only eyes. Do you know why the idol lacks hands and feet but has a head? Even today, this idol conveys a profound message to devotees: "One who wishes to serve the Lord must first relinquish pride". To understand why this is so, one must listen to the intriguing story behind it.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.