बालमोदिनी

कदाचित् काचित् काकमाता शुकस्य इव मम रूपैश्वर्यं नास्ति इति हीनभावनया सर्वदा खिद्यते स्म । अथ कदाचित् पञ्चवर्णशुकः आगत्य वृक्षशाखायाम् उपविष्टवान् । तं दृष्ट्वा एतादृशं सौन्दर्यं मम नास्ति इति काकमाता चिन्तयन्ती आसीत् तावता कुतश्चित् आगतः कश्चन बाणः शुकस्य कण्ठे लग्नः । एतत् दृष्ट्वा काकमाता भीतवती । चिन्तयति च 'देवस्य सृष्टिः व्यवस्थिता वर्तते । अव्यवस्थितं तु अस्माकं मनः एव' इति । एतेन सत्यज्ञानेन काकमाता हीनभावनां विमुच्य आनन्देन शावकैः सह अजीवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a mother crow was constantly troubled by feelings of inferiority, believing she lacked the beauty of a parrot. One day, a vibrant five-colored parrot perched on a tree branch nearby. Seeing its dazzling appearance, the mother crow felt even more disheartened. Suddenly, an arrow struck the parrot’s neck. Witnessing this, the mother crow was terrified and realized a profound truth: ‘The divine creation is well-ordered, it is only our minds that remain unsettled’. With this newfound wisdom, she let go of her complex and lived happily with her young ones.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.