बालमोदिनी

इयं तु चिरपरिचिता एव कथा । शिवेन नन्दी उक्तः आसीत् यत् मानवैः कृषिकार्यं करणीयं, द्विवारं स्नानं कर्तव्यम्, एकवारं भोक्तव्यम् इति । किन्तु नन्दिना प्रमादः आचरितः । सः आगत्य मानवान् विपरीतम् अवदत् 'भवद्भिः कृषिकार्यं कृत्वा दिने द्विवारं भोक्तव्यम्, एकवारं स्नानं कर्तव्यम्' इति । प्रतिदिनं द्विवारं भोजनं कृतम् इत्यतः तैः जनितं धान्यम् अल्पेनैव कालेन समाप्तम् अभवत् । यदा शिवेन नन्दिनः प्रमादः ज्ञातः तदा सः नन्दिनं दण्डितवान् यत् तस्य कुले जाताः वृषभाः मानवानां कृषिकार्ये सहायाः भूत्वा क्षेत्राणि कर्षेयुः इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

This is a well-known story. Lord Shiva told Nandi to inform humans that they should farm, bathe twice a day, and eat once a day. But Nandi made a mistake and told them the opposite: to farm, eat twice a day, and bathe once a day. Because people ate more, their grain was quickly used up. When Shiva learned of Nandi’s mistake, he punished him by declaring that bulls born in Nandi’s lineage would help humans by ploughing their fields.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.