बालमोदिनी

कदाचित् भगवान् बुद्धः प्रवचनावसरे 'अयि भक्ताः! समयः अतिक्रामति, जागृत' इति अवदत् । तदा कयाचित् नर्तक्या कुत्रचित् नर्तनं करणीयम् इति स्मृतम् । केनचित् लुण्ठाकेन लुण्ठनं करणीयम् इति स्मृतम् । केनचित् वृद्धेन इतः परं वा पुण्यं सम्पादनीयम् इति स्मृतम् । यतः आजीवनं धनार्जनमात्रमेव चिन्तितम् आसीत् । प्रवचनावसरे केवलम् एकं वाक्यम् उक्तं बुद्धेन किन्तु एकैकः अपि स्वमत्यनुगुणं तात्पर्याथं गृहीतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, during a sermon, Lord Buddha said, “O devotees! Time is passing—awaken!” Upon hearing this, a dancer remembered she had a performance to give somewhere. A thief thought of a robbery he had to commit. An old man reflected that he must now earn merit, as he had spent his entire life only pursuing wealth. Though Buddha spoke just a single sentence, each listener interpreted its meaning according to their own mindset.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.