कस्मिंश्चित् वनप्रदेशे पुष्पिकाणां राज्ञी अतीव लावण्यवती अपि रूपगर्विता, व्यवहारेण सा अतिक्रूरा च आसीत् । मायया सा अप्सरसः रूपं धृत्वा मृगयार्थं वनप्रदेशम् आगतान् राजकुमारान् विलोभ्य तान् अङ्गुष्ठमात्राकारेण कृत्वा स्वर्णपञ्जरे स्थापयति स्म । तान् विविधान् नृत्यप्रकारान् अध्यापयति स्म । यदि नृत्यं न कुर्वन्ति तर्हि स्वर्णसूचिकया विद्ध्वा पीडयति स्म । अथ कदाचित् वनप्रदेशम् आगतायाः वनदेवतायाः दृष्टिः तत्रत्यैः स्वर्णपञ्जरैः आकृष्टा । प्रवृत्तं सर्वं श्रुत्वा वनदेवता पुष्पिकाराज्ञीम् अशपत् 'मधुमक्षिकाराज्ञी भूत्वा मौक्तिकवर्णप्रासादे निवासं करिष्यति । बृहता शरीरेण कदापि प्रासादात् बहिः आगन्तुं न शक्नुयात्' इति । तदा प्रभृति मधुकोषे आमरणं बन्धनवासं सहते मधुमक्षिकाराज्ञी ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain forest region, there was a queen of the flower-maidens. Though extremely beautiful, she was proud of her looks and cruel in behavior. By illusion, she took the form of a celestial nymph and enticed princes who had come to the forest for hunting. She shrank them to the size of a thumb and kept them in golden cages, forcing them to learn various dances. If they refused, she would pierce them with a golden needle and cause pain. One day, a forest goddess came to that region and was drawn by the sight of the golden cages. Learning what had happened, she cursed the flower-queen: “You shall become the queen of bees and live in a pearl-colored palace. With your large body, you will never be able to leave it”. From that time onward, the bee-queen has endured lifelong imprisonment within the honeycomb.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.