बालमोदिनी

कदाचित् कश्चन बहुरूपः भोजराजस्य आस्थानम् आगत्य उदरपूरणाय पञ्चरूप्यकाणि अयाचत । किन्तु राजा वदति यत् 'अहं दानं न करोमि । कलाकारान् पुरस्करोमि । कापि कला यदि भवति स्यात् तर्हि सा दर्श्यताम्' इति । बहुरूपेण दिनत्रयं सन्यासिवेषः प्रभावितया दर्शितः । यदा राजा आगत्य लक्षं सुवर्णनाणकानि समर्पितवान् चेदपि सन्यासिवेषधारी बहुरूपः नेत्रे न उद्घाटितवान्  । वेषानुगुणं व्यवहरणीयम् इति धिया तत् धनं तुच्छत्वेन परिगणितम् आसीत् तेन ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a performer came to King Bhoja's court and asked for five rupees for food. The king replied that he did not give charity but rewarded talent, and asked him to show his skill. The performer then acted as a saint for three days so convincingly that everyone was impressed. Even when the king offered him a lakh of gold coins, he did not open his eyes. Staying true to the role of a saint, he treated the wealth as worthless.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.