बालमोदिनी

कश्चन दयावान् न्यायप्रियः राजा तस्य पत्नी च स्वप्रजाजनान् पुत्रान् इव प्रीत्या पालयतः । नृपस्य प्रासादसमीपस्थस्य आम्रवृक्षस्य फलानि अत्यन्तं मधुराणि रसपूर्णानि च भवन्ति स्म । एकदा राज्ञ्याः दासी नृपं स्वमात्रे एकं फलम् अयाचत । तस्य फलस्य खादनेन अतीव सन्तुष्टा सा वृद्धा 'सः वृक्षः मम उद्याने भवतु' इति विचिन्त्य द्वौ मल्लौ तथैव आज्ञापितवती । रात्रौ वृक्षकर्तनसमये सैनिकाः तयोः बन्धनं कृतवन्तः । सैनिकैः दास्याः माता अपि आनायिता । यथा तस्याः कल्याणं भवति तथा दण्डनं दत्तम् । तत् श्रुत्वा सा वृद्धा क्षमां याचयित्वा प्रसन्नमनसा गृहं प्रति प्रस्थितवती । किं तत् दण्डनम् इति कथया जानीत।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A kind and just king, with his queen, cared for their people like children. Near the palace grew a mango tree with very sweet fruits. The queen’s maid once asked for a fruit for her mother, who enjoyed it so much that she wished the tree were in her own garden. She ordered two men to cut it down at night, but the guards caught them and brought her before the king. The king, desiring her welfare, gave her a punishment that taught her a lesson. The old woman begged forgiveness and returned home with a lighter heart.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.