बालमोदिनी

मातुः वचनम् उपेक्ष्य कश्चन अजशावकः अजसमूहात् दूरं गत्वा अरण्यं प्राविशत् । तदा कश्चन महाकायः वृक पुरतः आगतः । कथमपि आत्मरक्षणं करोमि इति विचिन्त्य सः एकम् उपायं करोति । उच्चैः क्रन्दन् अवद्त् 'भ्रातः ! मह्यं जलं ददातु । अहं विषपर्णं खादितवान् अस्मि । मम सर्वम् अङ्गम् इदानीं विषमयं जातम्' इति वदन् निश्चेष्टः सन् अतिष्ठत् । तदा वृकः 'एतस्य मांसं खादित्वा अहमपि मृतः भविष्यामि' इति विचिन्त्य ततः अधावत् । तदनन्तरम् अजशावकः शीघ्रं धावन् गोष्ठं प्राप्नोत् । पुनः कदापि सः मातुः वचनं न उपेक्षितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Ignoring his mother’s advice, a young goat wandered away from the herd and entered the forest. Suddenly, a large wolf appeared before him. Thinking of a way to save himself, the goat cried out loudly, "Brother! Give me water. I have eaten a poisonous leaf, and now my whole body is filled with venom". He then lay still. The wolf, fearing that eating the goat’s flesh would poison him too, fled. The young goat quickly ran back to the herd and never ignored his mother’s words again.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.