बालमोदिनी

१८३० तमे वर्षे राजस्थाने जोधपुरे प्रवृत्ता घटना एषा । अद्यापि राजस्थाने बहुत्र भाद्रपदशुक्लदशम्याम् अमृतदेव्याः वीरगाथा पठ्यते गीयते च । भारतसर्वकारस्य अरण्यपरिसररक्षणविभागेन श्रेठाय परिसरसंरक्षकाय 'अमृतदेवीप्रशस्तिः' दीयते । का सा अमृतदेवी ? किं कार्यं च कृतवती इति अस्यां कथायां विद्यते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This event took place in 1830 in Jodhpur, Rajasthan. Even today, in Rajasthan, the story of Amrita Devi's bravery is read and sung on the tenth day of the Bhadrapada month. The Forest Conservation Department of the Government of India awards the 'Amrita Devi Award' to the best forest protector. Who was Amrita Devi? What did she do? This story explains it.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.