बालमोदिनी

वणिजः वीरभद्रस्य चत्वारः पुत्राः आसन् । सः पुत्रेषु अतीव स्निह्यति स्म । कदाचित् वीरभद्रः पुत्रेभ्यः दत्तानि अङ्गुलीयकानि प्रतिस्वीकृत्य एकस्यां पेटिकायां निक्षिप्य स्वस्य मरणानन्तरं मातरं पृष्ट्वा पुनः अङ्गुलीयकानि स्वीकुर्वन्तु इति अवदत् । यदा वीरभद्रस्य मरणं जातं तदा कनिष्ठः पुत्रः यथाकथञ्चित् पेटिकातः अङ्गुलीयकम् अचोरयत् । पितुः उत्तरक्रियायाः अनन्तरं यदा अन्ये पुत्राः पेटिकाम् उद्घाटितवन्तः तदा तत्र त्रीणि एव अङ्गुलीयकानि आसन् । परस्परं कलहं कुर्वतः पुत्रान् माता पितृव्यस्य समीपं प्रेषयति न्यायं प्राप्तुम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

The merchant Veerabhadra had four sons, whom he loved dearly. One day, he collected the rings he had given them, locked them in a box, and instructed that after his death they should ask their mother for the box and divide the rings among themselves. After Veerabhadra passed away, the youngest son secretly stole one ring from the box. Later, when the other brothers opened it after their father's last rites, they found only three rings. A dispute arose among them, and their mother sent them to their uncle to seek justice.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.