बालमोदिनी

कदाचित् कश्चन बालकः चिन्मयः सुमधुरं कूजन्तं पक्षिशावकं गृहीत्वा पञ्जरे स्थापितवान् । चिन्मयः आदिनं शावकं किमपि खादयितुं प्रयतमानः आसीत् किन्तु शावाकः किमपि अस्पृष्ट्वा मातरं स्मरन् व्याकुलतया क्रन्दनं कुर्वन् आसीत् । अनन्तरदिने प्रातः एकः पक्षी एतं शावकं किमपि खादयन् आसीत् । तद् दृष्ट्वा यदा चिन्मयः पञ्जरसमीपं गतः तावता शावकः मृतः आसीत् । अनन्तरं केनचित् पक्षितज्ञेन ज्ञातं 'यदि कश्चन पक्षी दुर्दैववशात् गृहीतः, तर्हि अन्यपक्षिणः तं विषफलं खादयित्वा मारयन्ति' इति । तत् श्रुत्वा पश्चात्तापदग्धः सन् चिन्मयः तदा एव स्वतन्त्रतायाः महत्त्वं ज्ञातवान् । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

One day, a boy named Chinmaya caught a sweetly chirping baby bird and placed it in a cage. He tried feeding it daily, but the bird refused to eat, longing for its mother and crying in distress. The next morning, another bird came and fed the baby bird something. When Chinmaya approached the cage, he found the baby bird dead. Later, an ornithologist explained that if a bird is captured, other birds sometimes feed it poisonous fruit to end its suffering. Hearing this, Chinmaya was filled with remorse and realized the true value of freedom.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.