कदाचित् कश्चन धनिकः कस्यचन उत्कृष्टकलाकारस्य समीपं गत्वा स्वस्य चित्रं लेखयितुम् प्रार्थितवान् । चित्रकारेण चित्रं लिखितं, किन्तु धनिकः सादृश्यरहितताम् आरोप्य चित्रं न क्रीतवान् । चित्रकारेण द्वितीयम् उत्कृष्टं चित्रम् अपि लिखितम् । तदपि चित्रं धनिकः निराकृतवान् दोषान् प्रदर्श्य । खिन्नः चित्रकारः मित्रेण सह विचार्य धनिकस्य गृहं गत्वा अवदत् 'यतो हि चित्रद्वये अपि भवतः सादृश्यं नास्ति, बहवः दोषाः सन्ति, ते चित्रे विकलाङ्गानां निमित्तं धनसङ्ग्रहाय उपयोगं करिष्यामि' इति । एतत् श्रुत्वा धनिकः आत्मदोषं ज्ञात्वा, यथा योग्यं धनं दत्त्वा च उभयमपि चित्रं क्रीतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a wealthy man approached a skilled artist and requested a portrait of himself. The artist painted the portrait, but the wealthy man rejected it, claiming it lacked resemblance. The artist then created a second, even finer portrait, but again the man dismissed it, pointing out supposed flaws. Disheartened, the artist discussed the matter with a friend and decided to visit the man's home. There, he said, “Since both portraits lack resemblance and contain many flaws, I will use them to raise funds for the disabled.” Hearing this, the wealthy man realized his own shortcomings. Filled with remorse, he paid the appropriate amount and purchased both paintings.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.