बालमोदिनी

बलूचदले कश्चन सैनिकः आसीत् महम्मद् उस्मान् इति । अनेकेषु युद्धेषु भागं वहन् महत् शौर्यं प्रदर्शयन् उस्मान्-वर्यः 'ब्रिगेडियर्' पदं प्राप्नोत् । तदीयं देशप्रेम असदृशम् आसीत् । १९४७ तमे वर्षे यदा भारतस्य विभागः जातः तदवसरे निर्णीतं यत् बलूचदलं पाकिस्थानाधीनं स्यात् इति । किन्तु ब्रि.उस्मान्-वर्यः पाकिस्थानस्य अधीनतां न अङ्गीकृतवान् ।  १९४८ तमे वर्षे यदा पाकिस्थानेन भारतस्य कश्चन भूभागः वशीकृतः आसीत् तदा अपायस्थितौ अपि युद्धं कृत्वा 'नौशेरा' नामकस्य प्रदेशस्य प्रतिप्राप्तौ सः एव प्रमुखपात्रम् ऊढवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the Baluch regiment served a soldier named Mohammad Usman. He fought in many battles with great bravery and rose to the rank of Brigadier. His patriotism was unmatched. In 1947, when India was partitioned, it was decided that the Baluch regiment would go to Pakistan. Brigadier Usman refused to accept Pakistani command. In 1948, when Pakistan occupied part of Indian territory, he fought valiantly and played the leading role in regaining the region of Naushera, even in grave danger.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.