बालमोदिनी

दक्षिणभारतस्य बळ्ळारिसंस्थानं शिवराजसैन्यं स्वाधीनम् यदा अकरोत् तदा बळ्ळारिसंस्थानस्य राज्ञी मालादेवी शिवराजस्य पुरतः उपस्थापिता सती पराधीनजीवनं निराकृत्य मरणदण्डनं याचितवती । तदा शिवराजः तस्यां मातृत्वं दृष्वा अज्ञानात् यत् आक्रमणं कृतं तदर्थं‌ क्षमाम् अयाचत । बळ्ळारिसंस्थानं च स्वतन्त्रम् अकरोत् च । शिवराजस्य औदार्यस्य विनयस्य च दर्शनात्  मालादेव्याः हृदयं भावनिर्भरं जातम् । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Shivaji’s army attacked Ballari and defeated them. When Queen Maladevi of Ballari was brought before Shivaji, she refused to live under someone else's control and pleaded for a death sentence. Seeing her as a mother, Shivaji, realizing that the attack had been due to ignorance, sought forgiveness. He also granted independence to the Ballari region. Witnessing Shivaji's generosity and humility, Maladevi’s heart was filled with deep emotion.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.