बालमोदिनी

कस्मिंश्चित् गुरुकुले पञ्च शिष्याः अध्ययनं कुर्वन्ति स्म । तेषु कश्चन अन्धः सन् महता यत्नेन अध्ययनं करोति स्म । कदाचित् गुरुः अपृच्छत् 'जगति बलवत्तमं वस्तु किं स्यात्?’ इति । प्रथमः शिष्यः शस्त्रम्, द्वितीयः अयः, तृतीयः अग्निः, चतुर्थः जलम् इति यथाक्रमम् अवदन् । अन्धशिष्येन कथितम् 'बाह्यजगति स्युः नैकानि बलवत्तमवस्तूनि । किन्तु तेषां सर्वेषां भौतिकवस्तूनाम् अपेक्षया बलवत्तमं च भवति 'दृढसङ्कल्पः' । अयं शस्त्रं निगृह्णाति, अयः द्रवीकरोति, अग्निं शमयति, जलं च बाष्पीकृत्य आकाशं प्रति प्रेषयति' इति ।  अनेन उत्तरेण अन्धे शिष्ये विद्यमानः दृढसङ्कल्पः कियान् बलिष्ठः स्यात् इति गुरुणा अवगतम् । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In a gurukula, five disciples were studying. One of them was blind but worked hard. One day, the teacher asked: ‘What is the strongest force in the world?’. The first disciple said ‘weapons,’ the second ‘iron,’ the third ‘fire,’ and the fourth ‘water’. The blind disciple replied: ‘There are many powerful things in the external world, but stronger than all material forces is firm determination. Determination can control weapons, melt iron, extinguish fire, and turn water into vapor that rises to the sky’. From this answer, the teacher realized how powerful the blind disciple’s inner resolve truly was.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.