बालमोदिनी

दुर्गादासराथोड: कश्चन अप्रतिमवीर: । कथञ्चित् दुर्गादास: मारणीय: इति मोगलाजना: चिन्तयन्त: आसन् । कदाचित् दुर्गादास: पुण्यक्षेत्रस्य दर्शनसमये एकस्यां रात्रौ कस्यचित् मराठदलपते: गृहे वासम् अकारोत् । स: दुर्गादासं मारयित्वा राज्ञा प्रभूतं धनं स्वीकरिष्यामि इति मत्वा खड्गं स्वीकृत्य दुर्गादासं मारयितुम् उद्युक्तः अभवत् । अग्रे किं जातम् इति स्वारस्यकारीं कथां श्रुत्वा जानीमः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Durgadas Rathod was an unparalleled warrior. The Mughals plotted to kill him. Once, while visiting a sacred place, Durgadas stayed overnight at the house of a Maratha leader. Tempted by the thought of killing Durgadas and gaining great wealth from the king, the host took up his sword, ready to strike. What happened next is a gripping tale that reveals how family honor was preserved.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.