बालमोदिनी

कदाचित् मुक्तिप्राप्तीच्छवे ज्येष्ठाय कश्चन गुरुः - 'आशाव्यामोहादयः यावत् अस्मदन्तः स्युः तावत् प्रापञ्चिकबन्धनं स्यात् एव । अतः अन्तर्मुखतां प्राप्य अशादित्यागाय निरन्तरं श्रमः करणीयः ।  अशादिबन्धमोक्षतः जीवनं बाह्यसम्पर्कहीनं भविष्यति ।  एतदेव मोक्षं प्रातुं प्रथमं सोपानम् । आशाबाहुल्यं क्रमशः न्यूनीकृतं चेत् क्षणिकलाभचिन्ता अपगच्छेत् ।  तदा जीवने विकासः स्यात्' इत्यादिभिः वचनैः बोधयति । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A certain teacher, addressing an elder who desired liberation, says, "As long as desires, attachments, and delusions remain within us, worldly bondage will persist. Therefore, one must continuously strive to become inward-focused and renounce desires. When freed from the bondage of desires and the like, life will become devoid of external associations. This is the first step to attaining liberation. If the abundance of desires is gradually reduced, the worries of momentary gains will disappear. Then, life will flourish".

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.