रोमहर्षनामा कश्चन वणिक् विदेशगमनात् पूर्वं स्वधनं रक्षितुं मित्रं लोभनाथं याचितवान् । दीर्घकालानन्तरं रोमहर्षः प्रत्यागत्य स्वधनं प्रत्यर्पितुम् अवदत् किन्तु धनं बहोः कालात् पूर्वमेव प्रत्यर्पितवान् इति असत्यम् अवदत् लोभनाथः । ततः ताभ्यां न्यायालयं प्रति गतम् । तत्र कस्यचन आसन्दस्य दक्षिणभागे प्रतिनिबद्धः तीक्ष्णः खड्गः अपराधिनः सत्यतायाः परीक्षां कृत्वा असत्यवादिनः हस्तं कर्तयति । आसन्दे रोमहर्षः उपविश्य लोभनाथेन मम धनं प्रतिदातव्यम् इति उक्तवान् । आसन्दः खड्गप्रहारं न अकरोत् । लोभनाथः आसन्दम् उपसर्प्य रोमहर्षाय एकं दण्डं दत्त्वा आसन्दे उपविश्य 'मया धनं तस्मै प्रतिदत्तम्' इति उक्तवान् । आसन्देन तूष्णीं स्थितम् । आसन्देन विपर्यस्तं वचनद्वयं कथम् अङ्गीकृतम् ? तयोः कः सत्यं वदति ? अग्रे किं भवति ? इति जिज्ञासायां कथां शृण्वन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Romaharṣa, a merchant, entrusted his wealth to his friend Lobhanātha before traveling abroad. Years later, Lobhanātha falsely claimed he had already returned it long ago. They went to a court where a special seat had a sharp sword fixed to its side — it would strike the hand of anyone who lied. Romaharṣa sat first and declared, “Lobhanātha must return my money.” The sword did nothing. Then Lobhanātha approached, handed Romaharṣa a small stick, sat on the seat, and said, “I already returned the money to him” and the sword remained still. Why did the sword not react to these contradictory claims? Who was truly honest? What happens next? The mystery deepens… listen on to uncover the truth.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.