ग्रीक्-देशस्य स्पार्टानगरे एकं देवीमन्दिरम् आसीत् । देव्याः विग्रहे एकः खड्गः लम्बमानः असीत् । सः खड्गः न्यायनिर्णये सहकरोति स्म । विवादः उत्पन्ने वादिनः विवादिनः च मन्दिरं गत्वा खड्गस्य अधः हस्तं स्थापयन्ति । तदा खड्गः स्वयमेव अधः पतति येन यः अन्याय्यं कृतवान् भवति तस्य हस्तः कर्तितः भवति । अल्विनः नाम कश्चन कृषकः काञ्चित् विधवामहिलां न्यासरूपेण स्थापितानां सुवर्णनाणकानां विषये वञ्चयति । न्याय्यार्थं मदिरं गत्वा खड्गस्य अधः हस्तं स्थापितवान् अल्विनः । किन्तु खड्गः न विचलितः । कारणं ज्ञातव्यं वा ? अल्विनस्य कृते दण्डनं लभ्येत वा ? कथां श्रुत्वा जानन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the Greek city of Sparta, there was a temple dedicated to a goddess. A sword hung from the deity’s statue, which played a role in delivering justice. Whenever a dispute arose, the litigants would go to the temple and place their hands beneath the sword. If someone had committed an injustice, the sword would fall and sever their hand. A farmer named Alvin deceived a widowed woman regarding gold coins entrusted to him for safekeeping. Seeking justice, he went to the temple and placed his hand beneath the sword. However, the sword did not move. Why did this happen? Would Alvin receive punishment? Listen to the full story to find out!
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.