बालमोदिनी

कदाचित् घोरे युद्धे प्रवृत्ते उभयपक्षीयाः अपि बहवः मृताः । सर्वत्र मानवानां शवाः एव दृश्यन्ते स्म । कतिपयैः जनैः सह 'आदर्शः' अपि भीतो भूत्वा पलायनम् आरब्धवान् । दैवदुर्वियोगवशात् पलायमानः सः आदर्शः आतङ्कवादिना गृहीतः । यदा आदर्शः वदति 'मानवतारक्षणं मम धर्मः' ततः आरभ्य सः आतङ्कवादिनाम् अज्ञाते स्थले निरुद्धः वर्तते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

During a fierce war, countless individuals on both sides perished. Everywhere, only human corpses were visible. Among some individuals, 'Adarsh' too, frightened, began to flee. By a twist of fate, while escaping, Adarsh was captured by terrorists. When Adarsh declared, 'Protecting humanity is my duty,' from that moment onward, he has been confined by the terrorists in an unknown location.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.