बालमोदिनी

कस्यचन पण्डितस्य कन्या सर्वगुणसम्पन्ना उच्चाकाङ्क्षिणी च प्रतिज्ञाबद्धा आसीत् यत् सर्वे यं प्रशंसन्ति, यश्च शक्तिशाली भवति तमेव अहं वृणोमि इति । एकदा सा महाराजं दृष्ट्वा तमेव वृणोमि इति अचिन्तयत् । किन्तु सः यदा गुरोः पादस्पर्शं करोति, तदा गुरुः एव श्रेष्ठः इति चिन्तयति । पुनः गुरुः देवं प्रणमति इति करणेन देवः श्रेष्ठः इति चिन्तयति । अन्ततो गत्वा पण्डितपुत्रः एकः दृष्टेभ्यः सर्वेभ्यः श्रेष्ठः इति मत्वा तेन सह उच्चाकाङ्क्षिण्याः कन्यायाः परिणयः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A scholar's daughter, endowed with all virtues and ambitious, had vowed that she would choose only the one who is admired by all and who is powerful. One day, upon seeing a great king, she thought of choosing him. However, when she noticed the king bowing at the feet of his Guru, she concluded that the teacher is greater. Later, seeing the Guru praying to God, she realized that God is the greatest. Finally, after much thought, she determined that the scholar's son was superior to all she had seen and decided to marry him.
32. अर्थहीनं वस्तुजातम्

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.