बालमोदिनी

चोरः सञ्जीवः न्यायाधीशं वदति 'यदा चौर्यं करोमि तदा मम माता कदापि मां न तर्जितवती । अतः मात्रे दण्डनं दीयताम्' इति । माता वदति 'पतिः मद्यपानार्थं धनं पृच्छति । अतः पतिं दण्डयतु' इति । पतिः वदति 'पिता मां बाल्यकाले एव त्यक्त्वा कारागृहं गतवान्' इति । पिता वदति 'कञ्चित् सज्जनम् आतङ्कवादिनः मारितवन्तः इति आरक्षकप्रमुखं निवेदितवान् । किन्तु भवान् एव आतङ्कवादी' इति उक्त्वा मां कारागृहं प्रेषितवान् । आरक्षकप्रमुखः उक्तवान् 'अहं केवलं तं गृहीत्वा अत्र आनीतवान् । परन्तु तस्य आजीवनं कारागृहवासरूपं दण्डनं भवता एव दत्तम् आसीत्' इति । एतत् श्रुत्वा न्यायाधीशः स्तब्धः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

The thief Sanjeeva told the judge, "When I committed theft, my mother never scolded me. So, she should be punished". The mother said, "My husband demanded money for drinking. Punish him instead". The husband said, "My father abandoned me in childhood and went to prison". The father said, "I once reported a terrorist to the police chief, but he falsely labeled me as the terrorist and sent me to prison". The police chief responded, "I only arrested him, but it was you who sentenced him to life imprisonment". Hearing this, the judge was left speechless.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.