कश्चित् आजीविकाम् अन्विष्यन् ग्रामतः मुम्बापुरीम् आगत्य श्रमिकैः सम्मिल्य कस्याञ्चित् निर्माणशालायां कार्यं करोति स्म। स्वकीयधारणाय अपेक्षितं धनं स्वसमीपे संरक्ष्य शेषं ग्रामे निवसन्त्यै मात्रे प्रेषयति स्म । कदाचित् सः शतरूप्यकाणि मात्रे प्रेषयितुम् इच्छन् एकं संक्षिप्तं लखं विलिख्य रूप्यकैः सह पत्रम् एकस्मिन् पुटके निधाय गृहगमनाय लोकयानम् आरूढवान् । लेखेन आर्जितद्रव्येण च सहितं पुटकं केनापि चातुर्येण चोरितम् आसीत् । किन्तु यः तं धनं चोरितवान् सः पत्रं पठित्वा द्रुतहृदयः जातः । सप्तानां दिनानाम् अनन्तरं शतरूप्यकैः सह मातुः चिकित्सायै सहस्ररूप्यकाणि अपि प्रेषितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A man searching for a livelihood came to Mumbai from a village and started working in a construction site among laborers. He saved the money he needed for his expenses and sent the rest to his mother residing in the village. Once, wishing to send a hundred rupees to his mother, he wrote a brief letter and placed it with the money in a small pouch, then boarded a bus to go home. The pouch containing the letter and the earned money was cleverly stolen by someone. However, the thief's heart melted after reading the letter. Seven days later, in addition to sending a hundred rupees, the thief also sent a thousand rupees for the mother's treatment."
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.