बालमोदिनी

यदा वणिजः माधवस्य सुदिनानि समाप्तानि दुर्दिनानि सन्निहितानि तदा सः आर्तस्वरेण देवं प्रार्थितवान् । तदा देवः ब्राह्मणवेषं धृत्वा 'स्वस्य दुःखमेव अधिकम् इति कदापि अस्माभिः चिन्तनं न करणीयम् । अन्येषाम् इतोऽप्यधिकानि दुःखानि भवन्ति एव' इति केनचित् निर्दर्शनेन बोधितवान् । ततः सः धैर्येण एव कष्टानि सोढवान् । अन्ते च सुखं प्राप्तवान् । 
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

When the merchant Madhava's good days ended and difficult times approached, he prayed to God in distress. Then, God, disguised as a Brahmin, advised him, "One should never think that their suffering is the greatest. There are always others facing even greater hardships". With this realization, Madhava endured his troubles with patience. In the end, he attained happiness.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.