बालमोदिनी

कस्मिंश्चित् ग्रामे मुकुन्दः गोविन्दः च मित्रद्वयम् आसीत् । गोविन्दः बुद्धिमान् परन्तु मुकुन्दः मन्दबुद्धिः । गोविन्दः स्वबुद्धेः उपयोगः स्वार्थलाभाय करोति स्म । सः द्विवारं मुकुन्दं वञ्चयति । किन्तु मुकुन्दः किमपि कर्तुम् अशक्तः । कदाचित् ग्रामम् आगतः महापुरुषः एतयोः वृत्तान्तं ज्ञात्वा मुकुन्दं कमपि उपायं सूचितवान् । अनन्तरदिने मुकुन्दः तम् उपायम् उपयुज्य गोविन्दं पाठितवान् । तदनन्तरं गोविन्दः मुकुन्दं क्षमाम् अयाचत । एवं‌ सत्पुरुषस्य मार्गदर्शनेन मुकुन्दः अपि सुखी अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In a village, Mukunda and Govinda were friends. While Govinda was intelligent, Mukunda was simple-minded. Govinda often used his wit for personal gain and deceived Mukunda twice, leaving him helpless. One day, a wise man visited the village and, upon learning of their story, advised Mukunda on a solution. The next day, Mukunda followed the advice and taught Govinda a lesson. Realizing his mistake, Govinda apologized. Thus, with the guidance of a noble person, Mukunda also found happiness.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.