बालमोदिनी

कदाचित् 'पञ्जाबकेसरी' इति ख्यातस्य राज्ञः रणजितसिंहस्य राज्यस्य सीमाप्रदेशं केचन लुण्ठाकाः पेशावरनगरस्य लुण्ठनं कुर्वन्तः सन्ति इति गुप्तचराः वार्ताम् आनीतवन्तः । तां वार्तां श्रुत्वा यदा राजा सेनापतिम् आनाय्य अपृच्छत् तदा त्रिगुणितप्रमाणेन स्थितान् तान् लुण्ठाकान् अस्मत्सैनिकाः कथं वा अवरोधयेयुः इति अवदत् सेनापतिः ।  किमपि उनुक्त्वा अनुक्षणं राजा १५० सैनिकैः पेशावरं प्राप्य शत्रुसंहारे उदुक्तः । तस्य शौर्यं खड्गप्रहारकौशलं च दृष्ट्वा नितरां भीताः लुण्ठाकाः अचिरात् एव ततः पलायितवन्तः ।  ततः सेनापतिः सङ्कल्पितवान् यत् इतः परं मया अधीरता न अश्रीयते इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, in the kingdom of Maharaja Ranjit Singh, also known as the "Lion of Punjab," some spies brought news that a group of looters was plundering the city of Peshawar. When the king summoned his general and asked how the looters could enter the city, the general replied with concern, mentioning that the looters were three times in number compared to their soldiers. Without saying a word, the king immediately set off for Peshawar with 150 soldiers to annihilate the enemy. Witnessing his bravery and swordsmanship, the terrified looters soon fled from the city. From that moment on, the general resolved that he would never again lose his composure.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.