कश्चन धूर्तः काणः अधिकं धनं सम्पादयितुम् एकम् उपायं करोति । 'यदि कश्चन अश्रुतपूर्वां कथां वदति तर्हि तस्मै वंशागतं सुवर्णपात्रं ददामि । यदि कथा श्रुतपूर्वा स्यात् तर्हि तेन एव मह्यं पञ्चशतं दीनाराः दातव्याः' इति घोषणं कारितवान् । बहवः जनाः कथाः श्रावितवन्तः । अन्ते श्रुतपूर्वा कथा एषा इति उक्त्वा तेभ्यः पञ्चशतं दीनारान् प्राप्नोति स्म । कदाचित् एकः चतुरः युवकः आगत्य 'भवान् स्मरसि खलु भवतः पित्रा मम पित्रे पञ्चलक्षदीनाराः दातव्याः सन्ति इति ......? यदि एषा कथा श्रुतपूर्वा तर्हि तान् दीनारान् मह्यं ददातु । यदि अश्रुतपूर्वा तर्हि सुवर्णपात्रं ददातु' इति । तस्य चातुर्येण काणः निरुत्तरः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A cunning one-eyed man devised a scheme to earn money. He announced, "If someone tells me a story I have never heard before, I will give them my ancestral golden vessel. If the story is familiar, they must pay me 500 dinars". Many people narrated stories, but he always claimed to have heard them before and collected the money. One day, a clever young man approached him and said, "Do you remember that your father owed my father 500,000 dinars? If you have heard this before, pay me the amount. If not, give me the golden vessel". Trapped by the young man's wit, the one-eyed man was left speechless.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.