बालमोदिनी

कल्पनालोके विहरन् कश्चन तरुणः कदाचित् स्वप्ने राजत्वं प्राप्तवान् आसीत् । अग्रिमदिनात् आरभ्य सः महाराजवत् व्यवहारम् आरब्धवान् । मातापितरौ किमपि कार्यं वदतः चेत् सः वदति 'अहं महाराजः अस्मि । किं महाराजः स्वयं कार्यं कुर्यात्‌?’ इति । एषः कथं बोधनीयः इति गृहसदस्याः यदा चिन्ताक्रान्ताः आसन् तदा तस्य अनुजा उपायेन तं समीकरोति । वस्तुस्थितिम् अवगत्य सः तरुणः कल्पनालोके विहारात् कीदृशं कष्टं भवति इति जानन् स्वस्य कर्तव्यम् अवगच्छति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A young man, lost in the world of imagination, once dreamt of becoming a king. From the next day onward, he began behaving like a king. Whenever his parents asked him to do something, he would reply, "I am the king. Why would a king do tasks himself?" Concerned about how to bring him back to reality, his family members grew anxious. His younger sister, however, devised a clever plan to help him see reason. Realizing the truth of his situation, the young man understood the hardships that come with living in a world of fantasy and recognized his responsibilities.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.