बालमोदिनी

कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । कस्यचित् चर्मकारस्य कुटीरं प्राप्य जलं पृष्टवान् । किन्तु निम्नकुलीयः सः चर्मकारः जलं कथं ददानि इति चिन्तयति । तदा महात्मा वदति यत् भगवतः दृष्ट्या सर्वे समानाः । ये तारतम्यम् आचरेयुः ते तु अज्ञानिनः । स्पृश्यास्पृश्यभेदः मानवेन कल्पितः.....’। तदनन्तरं सः चर्मकारः सन्तोषेण तस्मै महात्मने जलं दत्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a saint felt thirsty while traveling and asked for water at the hut of a cobbler. The cobbler hesitated, thinking of his low caste. The saint then said, “In the eyes of God, all are equal. Those who make distinctions are ignorant. The division of touchable and untouchable is man-made.” Hearing this, the cobbler joyfully gave him water.

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.