कश्चन अविवेकी, उद्धतः, कोपशीलः, विलासी च राजा प्रजाभ्यः अधिकं करं स्वीकरोति स्म । अथ कदाचित् सञ्चरन्तौ राजपुत्रौ अश्वाभ्याम् पतितवन्तौ । राजपुत्रौ इति ज्ञात्वा जनाः तयोः साहाय्यं न कृतवन्तः । 'भवतोः पिता अस्मान् पीडयन् अस्ति । निर्गच्छताम् इतः' इति अवदन् । अग्रे गच्छन्तौ तौ वृषभेन तुम्फनं प्राप्य व्रणितं निर्धनं बालकमेकं शुश्रूषया सत्कृत्य गृहं प्रापितवतः जनान् दृष्टवन्तौ । प्रासादम् आगतौ पुत्रौ राजानं प्रवृत्तं सर्वं विदितवन्तौ । एतत् श्रुत्वा राजा जनानां प्रीतेः सम्पादनार्थं प्रयत्नम् आरब्धवान् । विवेकेन शासनपरिष्कारं कृत्वा सः श्रेष्ठः राजा इति ख्यातः जातः । स एव चालुक्यचक्रवर्ती षष्ठः विक्रमादित्यः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A foolish, arrogant, short-tempered, and indulgent king imposed heavy taxes on his subjects. One day, his two sons, while riding, fell off their horses. Seeing them, people refused to help them, saying, ‘Your father oppresses us. Leave this place!’. As the two continued on their journey, they came across a wounded, impoverished boy struck by a bull. The people compassionately treated his injuries and brought him home. Upon returning to the palace, they informed the king of what had transpired. Hearing this, the king realized his mistakes and began efforts to earn his people's goodwill. Reforming his governance with wisdom, he became a revered ruler, known as Chalukya Emperor Vikramaditya VI.
What is बालमोदिनी?
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।
Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.